Bab

Sloka 411

यथा हिरन्यकर्त्ता वै रूप्य मग्नौ विशोधयेत्। बहुशो ह्यप्रयत्नेन यत्नेन नचिरेण हि॥४११॥

Sloka 412

तद्वज्जातिशतैर्जीवः शुद्ध्यतेऽल्पेन कर्म्मणा। यत्नेन महता चापि क्येकजातौ विशुद्ध्यते॥४१२॥

Sloka 413

लीलयाल्पं यथा गात्रात् प्रमृज्यादात्मनो रजः। बहु यत्नेन महता दोषनिर्हरणं तथा॥४१३॥

Sloka 414

क्षमया क्रोधमुच्छिन्द्यात् कामं संकल्पवर्ज्जनात्। लोभं मोहं च सन्तोषाद्विषयांस्तत्त्वदर्श्शनात्॥४१४॥

Sloka 415

आयत्या वर्ज्जयेदाशामर्थं सङ्गविवर्ज्जनात्। अनित्यत्वेन च स्नेहं दुःखं योगेन पण्डितः॥४१५॥

Sloka 416

कारुण्येनात्मनो मोहं तृष्णां च परितोषतः। उत्थानेन जयेत् तन्द्रीं वितर्कं निश्चयाज्जयेत्॥४१६॥

Sloka 417

मानं हित्वा प्रियो नित्यं कामं हित्वा सुखं भवेत्। क्रोधं हित्वा निराबाधस्तृष्णां जित्वा न तप्यते॥४१७॥

Sloka 418

अवश्यमिन्द्रियैस्तात वर्त्तितव्यं स्वगोचरे। चण्डरागस्तु यस्तत्र तं बुधः परिवर्ज्जयेत्॥४१८॥

Sloka 419

अप्रार्थनमसंस्पर्श्शं मसन्दर्श्शनमेव च। पुरुषस्येह नियमो भवेद्रागप्रहाणये॥४१९॥