Bab
Sloka 286
मृतो दरिद्रः पुरुषो मृतं राज्यमरक्षकम् । मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणः ॥२८६॥
Sloka 288
दरिद्रस्य मनुष्यस्य दुष्प्रज्ञस्याधनस्य च । कालेऽप्युक्तं हितं वाक्यं न कश्चित् प्रतिपद्यते ॥२८८॥
Sloka 289
सन्तोऽपि न विराजन्ते लुप्तार्थस्येतरे गुणाः । आदित्य इव भूतानां श्रीर्गुणानां प्रकाशिका ॥२८९॥
Sloka 290
चण्डालश्च दरिद्रश्च द्वावेतौ सदृशौ मतौ । चण्डालस्य न ग्र्ह्णन्ति दरिद्रो न प्रयच्छति ॥२९॰ ॥
Sloka 293
सुहृदां हि धनं भुंक्ते कृत्वा प्रणयमीप्सितम् । प्रतिकर्त्तुमशक्तस्य जीवितान्मरणं वरम् ॥२९३॥
Sloka 294
न तथा खिद्यते राजन् प्रकृत्या निर्धनो जनः । यथा भद्राणि सम्प्राप्य तैर्विहीनः सुखैधितः ॥२९४॥