Bab
Sloka 279
धनानि येषां विपुलानि सन्ति नित्यं रमन्ते सुविभूषिताश्च । तेषामयं शत्रुवरघ्नलोको नासौ सदा देहसुखे रतानाम् ॥२७९॥
Sloka 280
ये युक्तयोगास्तपसि प्रयुक्ताः स्वाध्यायशीला जनयन्ति देहम् । जितेन्द्रिया भूतहिते निविष्टास्तेषामयं नास्ति परस्तु लोकह् ॥२८॰॥
Sloka 281
ये धर्म्ममेव प्रथमं चरन्ति धर्म्मेण लब्ध्वा तु धनानि लोके । दारानवाप्य क्रतुभिर्य्यजन्ते तेषामयं चैव परश्च लोकः ॥२८१॥
Sloka 282
य नैव विद्यां न तपो न दानं न चापि पूजां क्रतुभिर्य्यजन्ते । न चाधिगच्छन्ति सुखाम भाग्यास्तेषामयं नैव परश्च लोकः ॥२८२॥