Bab

Sloka 405

एकः शत्रुर्न्न द्वितीयोऽस्ति शत्रुरज्ञानतुल्यः पुरुषस्य राजन्। येनावृतः कुरुते संप्रवृत्तः पापानि कर्म्माणि सुदारुणानि॥५०५॥

Sloka 406

अज्ञानप्रभवं हीदं यद्दुःखमुपलभ्यते। लोभादेव तदज्ञानमज्ञानाल्लोभ एव च॥४॰६॥

Sloka 407

तस्मात् सम्यक् परीक्षेत दोषानज्ञानसम्भवान्। अज्ञानप्रभवं नित्यमहङ्कारं च वर्ज्जयेत्॥४०७॥

Sloka 408

प्रज्ञया निर्म्मितैर्धीरास्तारयन्त्यबु धान् प्लवैः। नाबु धास्तारयन्त्यन्यानात्मानं वा कदाचन॥४०८॥

Sloka 409

नेत्रहीनो यथा ह्येकः कृच्छ्रणि लभतेऽध्वनि। ज्ञानहीनस्तथा लोके तस्माज्ज्ञानविदोऽधिकाः॥४०९॥

Sloka 410

अनिष्टसम्प्रयोगाच्च विप्रयोगात् प्रियस्य च। मनुष्या मानसैर्द्दुःखैर्य्युज्यन्ते येऽल्पबुद्धयः॥४१०॥