मनसा त्रिविधं चैव वाचा चैव चतुर्विधम् । कायेन त्रिविधं चापि दशकर्म्मपथंश्चरेत् ॥७९॥
अनभिध्यां परस्स्वेषु सर्व्वसत्त्वेषु चारुषम् । कर्म्मणां फलमस्तीति त्रिविधं मनसा चरेत् ॥८॰॥
असत्प्रलापं पारुष्यं पैशुन्यमनृतं तथा । चत्वारि वाचा राजेन्द्र न जल्पेन्नानुचिन्तयेत् ॥८१॥
प्राणतिपातं स्तैन्यं च परदारानथापिऽवा । त्रीणि पापानि कायेन सर्व्वतः परिवर्ज्जयेत् ॥८२॥
कायेन मनसा वाचा यदभीक्ष्नं निषेव्यते । तदेवापहरत्येनं तस्मात् कल्याणमाचरेत् ॥८३॥
वाचि कर्म्मणि चित्ते च दुर्ल्लभः सगुनो जनः । यस्य त्वेवंविधं कार्य्यं स जनः सर्व्वदुर्ल्लभः ॥८४॥