यज्ञे बहुज्ञं परमाभ्युदारं यं द्वीपमध्ये सुतमात्मभावात् । पराशरात् सत्यवती महार्षिं तस्मै नमोऽज्ञानतमोनुदाय ॥१॥
यथा समुद्रोऽतिमहान् यथा च हिमवान् गिरिः । उभौ रत्ननिधी ख्यतौ तथा भारतमुच्यते ॥२॥
इदं कविवरैर्नित्यमाख्यानमुपजीव्यते । उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः ॥३॥
इतिहाशोत्तमादस्माज्जायन्तेकविबुद्धयः । पञ्चभ्य इव भूतेभ्यो लोकसम्विधयस्त्रयः ॥४॥
अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते । आहारमनुनुपाश्रित्य शरीरस्येव धारण ॥५॥
श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते । पुंस्कोकिलरुतं श्रुत्वा रूक्षा ध्वांक्षस्य वागिव ॥६॥