Bab

Sloka 43

श्रुतिर्व्वेदः समाख्यातो धर्म्मशास्त्रं तु वै स्मृतिः । ते सर्व्वर्थेष्वमीमांस्ये ताभ्यां धर्म्मो विनिर्भृतः ॥४३॥

Sloka 44

चातुर्वर्ण्ण्यं तथा लोकाश्चत्वरश्चश्रमाः पृथक् । भूतं भव्यं भविष्यच्च सर्व्वं वेदात् प्रसिद्ध्यति ॥४४॥

Sloka 45

इतिहासपुराणाभ्यां वेदं समुपवृंहयेत् । बिभेत्यल्पश्रुताद्वेदो मामयं प्रचरिष्यति ॥४५॥

Sloka 46

श्रुत्युक्तः परमो धर्म्मस्तथा स्मृतिगतोऽपरः । शिष्टाचारः परः प्रोक्तस्त्रयो धर्म्माः सनातनाः ॥४६॥