कोटराग्निर्य्यथाशेषां समूलं पादपं दहेत्। धर्म्मार्थं च तथा लोके रागद्वेषो विनाशयेत्॥४४९॥
कामो बन्धनमेवैकं नान्यदस्तीह बन्धनं। काम बन्धनमुक्तो हि ब्रह्म भूयायकल्पते॥४५॰॥
यः सन्धारयते मन्युं योऽतिवादांस्तितिक्षति। यश्च तप्तो न तपति स भृशं शमभाजनम्॥४५१॥
अतर्थ्येनोच्यामानस्य कः कोपो यन्न तत्तथा। तथ्येनापि हि कः कोपो यदनुक्तेऽपि तत्तथा॥४५२॥
रागाभिभूतः पुरुषः कामेन परिगम्यते। इच्छा सञ्जायते चास्य ततस्तृष्णा प्रवर्तते॥४५३॥