धर्म्मे चार्थे च कामे च मोक्षे च भारतर्षभ। यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित् ॥७॥
मानुषः सर्व्वभूतेषु वर्त्तते वै शुभाशुभे । अशुभेषु समाविष्टं शुभेष्वेवावकारयेत् ॥८॥
उपभोगैः परित्यक्तं नात्मानमवसादयेत् । चण्डालत्वेऽपि मानुष्यं सर्व्वथा तात दुर्ल्लभम् ॥९॥
इयं हि योनिः प्रथमा यां प्राप्य जगतीपते । आत्मानं शक्यते त्रातुं कर्म्मभिः शुभलक्षणैः ॥१०॥
इहैव नरकव्याधेश्चिकित्सां न करोति यः । गत्वा निरौषधं स्थानं सरुजः किं करिष्यति ॥११॥
सोपानभूतं स्वर्ग्गस्य मानुष्यं प्राप्य दुर्ल्लभम् । तथात्मानं समादध्याद् ध्वंसेत न पुनर्य्यथा ॥१२॥
कर्म्मभूमिरियं ब्रह्मन् फलभूमिरसौ मता । इह यत् कुरुते कर्म्म तत् परत्रोपभुज्यते ॥१३॥
मानुष्यं दुर्ल्लभं प्राप्य विद्युल्लसितचञ्चलम्। भवक्षये मतिः कार्य्या भवोपकरणेषु च॥१४॥
यो दुर्ल्लभतरं प्राप्य मानुष्यं लोभतो नरः। धर्म्मावान्ता कामात्मा भवेत् सकलवञ्चितः॥१५॥