Bab

Sloka 397

पन्थानौ पितृयानश्च देवयानश्च विश्रुतौ। जन्मिनः पितृयानेन देवयानेन मोक्षिणः॥३९७॥

Sloka 398

यज्ञैस्तपोभिर्न्नियमैर्व्व्रतैश्च दिवं समासाद्य पतन्ति भूयः। तस्मादुपास्यं परमं पवित्रं शिवं विमोक्षं विमलं बुधेन॥३९८॥

Sloka 399

प्रम्लानेषु च माल्येषु ततः पिपति पाक्षयात्। आ ब्रह्मभवनादेते दोषा ब्रह्मन् सुदारुणाः॥३९९॥

Sloka 400

पतन्तस्तु महादुःखं परितापं सुदारुणम्। स्वर्ग्गभाजः प्राप्नुवन्ति तस्मात् स्वर्ग्गं न कामये॥४॰ ॰॥

Sloka 401

नरके यातनादुःखं तिर्य्यक्ष्वन्योऽन्यभक्षणम्। क्षुत्तृषादुःखं प्रेतेषु पर्य्येति व्यसनं नृषु॥४॰ १॥

Sloka 402

प्रातर्मूत्रपुरीषभ्यां मध्याह्ने क्षुत्पिपासया। तॄप्ताःकामेन बाध्यन्ते जन्तवो निशि निद्रया॥४॰ २॥

Sloka 403

उद्धरेदात्मनात्मानं नात्मानमवसादयेत्। आत्मैव ह्यात्मनो बन्द्धुरात्मैव रिपुरात्मनः॥४॰३॥

Sloka 404

चित्तमेव हि संसारो रागादिक्लेशदूषितम्। तदेव तैर्व्वियुक्तं च भवान्त इति कथ्यते॥४॰ ४॥