Bab

Sloka 233

येसां न पचते माता येसां न पचते पिता । उच्छेष्टं येऽभिकांक्षन्ति तेषामेतन्महासुखम् ॥२३३॥

Sloka 234

दुर्ब्बालर्थं बलं यस्य त्यागार्थं च परिग्रहः । पाकश्चैवापचितार्थं पितरस्तेन पुत्रिणः ॥२३४॥

Sloka 235

अनु तं तात जीवन्ति ज्ञातयः सह बान्धवैः । पर्ज्जन्यमिव भूतानि द्रुमं स्वादुमिवाण्डजाः ॥२३५॥

Sloka 236

श्रीमन्तं ज्ञतिमासाद्य यज्ज्ञातिरयचीदति । दग्धवृक्षं मृग इव सादनं तस्य निन्दति ॥२३६॥

Sloka 237

षत्वारस्ते तत गृहे वसन्तु श्रियाभिभूतष्य गृहस्थधर्म्मे । दिनो ज्ञतिश्चावसन्नः कुलीनः सखा दरिद्रो भगिनी चानपत्य ॥२३७॥

Sloka 238

अकर्म्मशीलं च महाशनं च लेकद्विष्टं बहुमायं नृशंसं । अदेशकलज्ञमर्निष्टवेषमेतान् गृहे न प्रतिवासयेत ॥२३८॥

Sloka 239

ऋत्विक्पुरोहिताचार्य्याः शिष्यसम्बान्धिबन्धवाः । सर्व्वे पूज्याश्च मान्याश्च श्रुतवृत्तोपसंहिताः ॥२३९॥

Sloka 240

उपाध्यायं पितरं मातरं च येऽभिद्रुह्यन्ति मनसा कर्म्मणा​ व । तेषां पापं भ्रूनह्त्याविचिस्तं नन्यस्तस्मात् पापकृच्चास्तिलोके ॥२४॰॥

Sloka 241

शरीरमेतौ कुरुतः पीत माता च भारत । अचार्यशास्ता या जातिः स दिव्या साजरामरा ॥२४१॥