Bab
Sloka 267
धर्म्मेणार्थः समाहार्य्यो धर्म्मलब्धं त्रिधा धनम्। कर्त्तव्यं धर्म्म परमं मानवेन प्रयत्नतः॥२६७. ॥
Sloka 269
येऽर्था धर्म्मेण ते लभ्या येऽधर्म्मेण धिगस्तु तान्। धर्म्मं वै शाश्वतं लोके न जह्यादर्थकांक्षया॥२६९॥
Sloka 270
धर्म्मार्थं यस्य वित्तेहा तस्यानीहा गरीयसी। प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्॥२७॰ ॥
Sloka 271
सर्व्वेषामेव शौचानामर्थशौचं विशिष्यते । योऽर्थे शुचिर्हि स शुचिर्न मृद्वारिशुचिः शुचिः ॥२७१॥
Sloka 272
येऽर्थाः क्लशेन महता धर्म्मस्यातिक्रमेण वा । अरेर्व्वा प्रणिपातेन मा स्म तेषु कृथा मनः ॥२७२॥
Sloka 273
जातस्य हि कुले मुख्ये परवित्तेषु गृध्यतः । लोभश्च प्रज्ञामाहन्ति प्रज्ञा हन्ति हता श्रियम् ॥२७३॥
Sloka 274
धर्म्मश्चार्थश्च कामश्च त्रितयं जीविते फलम् । एतत् त्रयमवाप्तव्यमधर्म्मपरिर्वार्ज्जितम् ॥२७४॥
Sloka 275
अवन्ध्यं दिवसं कुर्य्याद् धर्म्मतः कामतोर्ऽर्थतः । गते हि दिवसे तस्मिंस्तदूनं तस्य जीवितम् ॥२७५॥