Bab

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 1

श्रीभगवानुवाच भूय एव महाबाहो शृणु मे परमं वचः । यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥१०.१॥

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 2

न मे विदुः सुरगणाः प्रभवं न महर्षयः । अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥१०.२॥

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 3

यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥१०.३॥

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 4

बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः । सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥१०.४॥

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 5

अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः । भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥१०.५॥

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 6

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा । मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥१०.६॥

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 7

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः । सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥१०.७॥

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 8

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥१०.८॥

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 9

मच्चिता मद्गतप्राणा बोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥१०.९॥