Bab

Sloka 264

यमान् सेवेत सततं न नित्यं नियमान् बुधः। यमान् पतत्यसेवन् हि नियमान् केवलान् भजन्॥२६४॥

Sloka 265

आनृशंस्यं क्षमा सत्यमहिंसा दम आर्ज्जवम्। प्रीतिः प्रसादो माधुर्य्यं मार्द्दवं च यमा दश॥२६५॥

Sloka 266

दानमिज्या तपो ध्यानं स्वाध्यायोपस्थनिग्रहः। व्रतोपवासमौनं च स्नानं च नियमा दश॥२६६॥