Bab

Sloka 159

परदारा न गन्तव्याः सर्व्ववर्ण्णेसु कर्हिचित् । न हीदृशमनायुष्यं यथान्यस्त्रीनिषेवणम् ॥१५९॥

Sloka 160

तत् प्राज्ञेन विनीतेन ज्ञानविज्ञानवेदिना । नायुष्कामेन सेव्याः स्युर्म्मनसापि परस्त्रियः ॥१६॰॥

Sloka 161

तदेव सम्स्पर्शसुखं सैव चान्ते विडम्बना । स्वासु चान्यासु च स्त्रीषु परस्त्रीष्वथ को गुणः ॥१६१॥