Bab

Sloka 311

सद्भिरेव सहासीत सद्भिः कुर्वीत सङ्गतिम् । सद्भिर्व्विवादं मैत्रिं वा नासद्भिः किञ्चिदाचरेत् ॥३११॥

Sloka 312

न प्रहृष्यति सम्माने निन्दितो नानुतप्यते । न क्रुद्धः परुषाण्याह तमाहुः साधुलक्षणम् ॥३१२॥

Sloka 313

न स्मरन्त्यपराद्धानि स्मरन्ति सुकृतानि च । असम्भिन्नार्य्यमर्य्यादाः साधवः पुरुषोत्तमाः॥॥

Sloka 314

यथा यथा प्रकृष्टानां क्षेत्राणां सस्यसम्पदः । शाखा च फलभारेण नम्रः साधुस्तथा तथा ॥३१४॥

Sloka 315

प्रिष्ठतो न विजल्पन्ति दीनमभ्युद्धरन्ति च । सम्वासान्नावमन्यन्ते सेव्या राजेन्द्र साधवह् ॥३१५॥

Sloka 316

अर्थं महान्तमासाद्य विद्यामैश्वर्य्यमेव​ च । विचरेदसमुन्नद्धं यः स पण्डित उच्यते ॥३१६॥

Sloka 317

अनुगन्तुं सतां वर्त्म यदि कृत्स्नं न शक्यते । स्वल्पमप्यनुगन्तव्यं मर्ग्गस्थोऽपि न सीदति ॥३१७॥

Sloka 318

न केवलं जनस्यास्य साधुर्भवति सम्मतः । पुरुषं वृतसम्पन्नमात्मापि बहु मन्यते ॥३१८॥

Sloka 319

आर्य्यवृत्तमिदं वृत्तमिति विज्ञाय शाष्वतम् । सन्तः परार्थं कुर्वाणा नावेक्षन्ते प्रतिक्रियाम् ॥३१९॥