न वाच्यः परिवादो वै न श्रोतव्यः कदाचन । कर्ण्णौ वापि पिधातव्यौ गन्तव्यं व ततोऽन्यतः ॥१३२॥
सत्यधर्म्मच्युतात् पुंसः क्रुद्धादाशीविषादिव । नस्तिकोऽप्युद्विजेतेह जनः किं पुनरास्तिकः ॥१३३॥