BAB VIII - Ajaran Yoga Tentang Keabadian Tuhan | Sloka 8
८.8
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥८.८॥
abhyāsayogayuktena cetasā nānyagāminā,
paramaṁ puruṣaṁ divyaṁ yāti pārthānucintayan. VIII-8.
Padārthaḥ-Kosakata:
abhyāsa = dengan membiasakan terus menerus; yoga = melatih yoga; yuktena = dengan teguh, dengan kemantapan; cetasā = dengan pikiran; na = tidak; anyagāminā = bergerak pada hal lain; paramam = tertinggi, utama; puruṣa = puruṣa; divyam = maha cemerlang; yāti = pergi ke; anucintayan = dengan bermeditasi.
Anuvādaḥ-Terjemahan:
Ia yogi yang terus berlatih memusatkan pikirannya kepada Parama Puruṣa dengan pikiran tetap, dengan pikirannya yang terpusat tidak menuju kepada apapun lainnya, oh Arjuna, Ia mencapai Parama Puruṣa.
There are no reviews for this eBook.
Sloka Lainnya
BAB VIII - Ajaran Yoga Tentang Keabadian Tuhan | Sloka 1
अर्जुन उवाच किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम । अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥८.१॥
BAB VIII - Ajaran Yoga Tentang Keabadian Tuhan | Sloka 2
अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन । प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥८.२॥
BAB VIII - Ajaran Yoga Tentang Keabadian Tuhan | Sloka 3
श्रीभगवानुवाच अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते । भूतभावोद्भवकरो विसर्गः कर्मसञ्ज्ञितः ॥८.३॥
BAB VIII - Ajaran Yoga Tentang Keabadian Tuhan | Sloka 4
अधिबूतं क्षरो भावः पुरुषश्चाधिदैवतम् । अधियज्ञोऽहमेवत्र देहे देहभृतां वर ॥८.४॥
BAB VIII - Ajaran Yoga Tentang Keabadian Tuhan | Sloka 5
अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् । यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥८.५॥
BAB VIII - Ajaran Yoga Tentang Keabadian Tuhan | Sloka 6
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥८.६॥
BAB VIII - Ajaran Yoga Tentang Keabadian Tuhan | Sloka 7
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च । मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम् ॥८.७॥
BAB VIII - Ajaran Yoga Tentang Keabadian Tuhan | Sloka 9
कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः । सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् ॥८.९॥
BAB VIII - Ajaran Yoga Tentang Keabadian Tuhan | Sloka 10
प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव । भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् ॥८.१०॥
BAB VIII - Ajaran Yoga Tentang Keabadian Tuhan | Sloka 11
यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥८.११॥