शोकस्थानसहस्राणि भयस्थानशतानि च। दिवसे दिवसे मूढमाविशन्ति न पण्डितम्॥५१२॥
बुद्धिलाभाद्धि पुरुषः सर्व्वं तरति किल्बिषम्। विपापो लभते सत्त्वं सत्त्वस्थः सम्प्रसीदति॥५१३॥
वसन् विषयमध्येऽपि न वसत्येव बुद्धिमान्। संवसत्येव दुर्ब्बुद्धिरवसन् विषयेष्वपि॥५१४॥
लोहयुक्तं यथा हेम विपक्वं न विराजते। तथाऽपक्वकषायस्य विज्ञानं न प्रकाशते॥५१५॥
वीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः। ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः॥५१६॥
शकुनानां यथाकाशे मत्स्यानामिव चोदके। पदं यथा न दृश्येत तथा ज्ञानविदां गतिः॥५१७॥