Bab

Sloka 111

क्रुद्धः पापानि कुरुते क्रुद्धो हन्याद् गुरूनपि । क्रुद्धः परुषया वाचा नरः साधूनपि क्षिपेत् ॥१११॥

Sloka 112

वाच्यावाच्यं प्रकुपितो न विजानाति कर्हिचित् । नाकार्य्यमस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित् ॥११२॥

Sloka 113

क्रोधः शत्रुः शरीरस्थो मनुष्याणां नरोत्तम । यः क्रोधलोभौ त्यजति स लोके पूज्यातामियात् ॥११३॥

Sloka 114

देवतासु विशेषेण राजसु ब्राह्मणेषु च । नियन्तव्यो भवेत् क्रोधो बालवृद्धातुरेषु च ॥११४॥

Sloka 115

धर्म्मार्थहेतोः क्षमतस्तितिक्षोः शान्तिरुत्तमा । लोकसंग्रहणार्थां वै सा तु धैर्येण लभ्यते ॥११५॥