Bab

Sloka 295

प्रायेण श्रीमतां गेहे भोक्तुं शक्तिर्न विद्यते । दरिद्राणाम् तु राजेन्द्र सशाखमपि जीर्य्यति ॥२९५॥

Sloka 296

सम्पन्नातरमेवान्नं दरिद्रा भुञ्जते सदा । क्षुत् स्वादुतां जनयति सा चाढ्येषु न विद्यते ॥२९६॥

Sloka 297

क्षुद् धर्म्मसंज्ञां प्रणुदत्यादत्ते धैर्य्यमेव च । अर्थानुसारिणी जिह्वा कर्षत्येव रसं प्रति ॥२९७॥

Sloka 298

विषमां हि दशां प्राप्य दैवं गर्हयतेऽबुधः । आत्मनः कर्म्मदोषं हि न विजानात्यपण्डितः ॥२९८॥

Sloka 299

ईहमानः समारम्भान् यदि नासादयेद्धनम् । तपो महत् समातिष्ठेन्न ह्यनुप्तं प्ररोहति ॥२९९॥

Sloka 300

अत्यन्तविमुखे दैवे व्यर्थयत्नेषु कर्म्मसु । तेजस्विनो दरिद्रस्य वनादन्यत् कूतह् सुखम् ॥३॰॰ ॥

Sloka 301

प्रत्यादिष्टस्य वित्तेन विश्रामार्प्पितचेतसः । तुल्ये सति परिक्लेशे कः प्रद्वेषस्तपोवने ॥३॰१॥

Sloka 302

कुब्जस्य कीटखातस्य दावनिष्णुसितत्वचः । तरोरप्यूषरस्थस्य भद्रं जन्म न चार्थिनः ॥३॰२॥

Sloka 303

एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर । एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोर्ऽथिभिः ॥३॰३॥