Bab
Sloka 184
धनेन किं यन्न ददाति नाश्नुते बलेन किं येन रिपून् न बाधते । श्रुतेन किं येन न धर्म्म मचरेत् किमात्मना यो न जितेन्द्रियो वशी ॥१८४॥
Sloka 186
दानं हि भूतभयदक्सिनयाः सर्व्वाणि दानान्यधितिष्ठतीह । तीक्ष्नां तनुं यः प्रथमं जहाति सोऽनन्तमाप्नोत्यभयं प्रजाभ्यः ॥१८६॥
Sloka 188
द्वाविमौ पुरुषव्याघ्र स्वर्ग्गस्योपरि तिष्ठतः । दुर्भिक्षा चान्नदाता च सुभिक्षे च हिरण्यदः ॥१८८॥
Sloka 191
अर्थं दद्यान्न चासत्सु गुणान् ब्रूयान्न चात्मनः । आदद्याच्च न साधुभ्यो नासत्पुरुषमाश्रयेत् ॥१९१॥
Sloka 192
ब्राह्मणश्चेन्न विद्येत श्रुतवृत्तोपसंहितः । प्रतिग्रहीता दानस्य मोघं स्याद् धनिनां धनम् ॥१९२॥