चरित्रनियता राजन् ये कृशाः कृशवृत्तयः । अर्थिनश्चोपगच्चन्ति तेषु दत्तं महाफलं ॥१९३॥
न दद्याद्यशसे दानं न भयान्नोपकारिणे । न नृत्तगीतशीलेभ्यो हासकेभ्यो न धार्म्मिक ॥१९४॥
माता पिता वा प्राणानां भवतार्मार्थिनौ यदि । ताभ्यां संप्रतिदातव्यस्ते हि ताभ्यामुपार्ज्जिताः ॥१९५॥
यन्मातापितरौ क्लेशं सहेते गर्भधारणे । न तस्य निष्कृतिः शक्या कर्त्तुं वर्षशतैरपि ॥१९६॥
दरिद्रान् भज कौन्तेय मा प्रयच्छेश्वरे धनम् । व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः ॥१९७॥
अयाचतः सीदतश्च सर्व्वोपायैर्नियन्तव्यः । आन्र्शंष्यं परो दर्मोऽयाचते यत् प्रदीयते ॥१९८॥
नावमन्येताभिगती न प्रनुद्यात् कथञ्चन । अपि श्वपाके शुनि वा न दानं विप्रणश्यति ॥१९९॥
अहन्यहनि याचन्तं कोऽवमन्येद् गुरुं यथा मार्ज्जनं दर्पणस्येव यः करोति दिने दिने
नातः परं च लोकेषु किञ्चित् पापिष्ठमस्ति वै । यथात्मनाशनं लोके नास्ति देहीति व पुनः ॥२०१॥