Bab

Sloka 202

शिक्षयन्ति न यच्छन्ते देहिति कृपणा नरः । अवस्थेयमदानस्य मा भूदेवं भवानिति ॥२०२॥

Sloka 203

प्रदद्याद् देयमित्येव यजेद् यष्टव्यमित्यपि । अस्तु वास्त्र फलं मा च कर्त्तव्यं पुरुषेण हि ॥२०३॥

Sloka 204

हिरण्यदानं गोदानं पृथिवीदानमित्यपि । एतानि वै पवित्राणि तारयन्ति परत्र च ॥२०४॥

Sloka 205

सुवर्ण्णं रजतं वस्त्रं मणिमुक्तावासूनि च । सर्व्वमेतन्महाराज ददासि वसुवान् धनं ॥२०५॥

Sloka 206

दद्याच्छुभं यः कपीलां सचेलां कांस्योपदोहां कनकाग्रशृङ्गाम् । तैस्तैर्गुणैः कामदुघा हि भूत्वा नरं प्रदातारमुपैति सा गौः ॥२०६॥

Sloka 207

सुगन्ध धूपान्यनुलेपनानि वस्त्रानि माल्यानि च मानवो यः । दद्यादभीक्ष्नं स भवेदरोगी तथा सुरूपश्च स देवलोके ॥२०७॥

Sloka 208

तिलान् ददत पानीयं दिपान् ददत मा वृथा । ज्ञतिभिः सह मोदध्वमेतत् प्रेत्य सुदुर्ल्लभं ॥२०८॥

Sloka 209

दुर्लभं सलिलं तात विशेषेण परत्र च । पानीयस्य प्रदानेन तृप्तिर्भवती शाश्वती ॥२०९॥

Sloka 210

अलोकदाता चक्षुष्मान् प्रभायुक्तो भवेन्नरः । प्रदीपदः स्वर्ग्गलोके दीपमालेव राजते ॥२१॰॥