Bab

Sloka 502

सुखं च दुःखं च भवभवौ च लाभालाभौ मरणं जीवितं च। पर्य्यायतः सर्व्व एवाविशन्ति तस्माद्धीरो नैव तप्येन्न हृष्येत्॥५॰२॥

Sloka 503

सुखमापतितं सेवन् दुःखमापतितं भज। कालं प्राप्तमुपासीत सस्यानामिव कर्षकः॥५॰ ३॥

Sloka 504

सुखं वा यदि वा दुःखं भूतानां पर्युपस्थितम्। प्राप्तव्यमवशैः सर्व्वं परिहारो न विद्यते॥५॰ ४॥

Sloka 505

सुखस्यानन्तरं दुःखंदुःखस्यानन्तरं सुखम्। पर्य्यायेणोपवर्तन्ते नरं नेमिमरा इव॥५॰ ५॥

Sloka 506

ज्ञानवानेव पुरुषः संयुक्तः परया धिया। उदयास्तमनज्ञो हि न शोचति न हृष्यति॥५॰ ६॥

Sloka 507

प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः। एतद्धि ज्ञानसामर्थ्यं न बालैः समतामियात्॥५॰ ७॥

Sloka 508

मानसेन हि दुःखेन शरीरमुपताप्यते। अयःपिण्डेन तप्तेन कुम्भसंस्थमिवोदकम्॥५॰ ८॥

Sloka 509

मानसं चमयेत् तस्मात् प्रज्ञयाऽग्निमिवाम्भसा । प्रशान्ते मानसे ह्यस्य शारीरमुपशाम्यति॥५॰ ९॥

Sloka 510

संविद्रते न बलयः पलितानि न जानते। प्रज्ञावबोद्धितत्त्वानामव्यापारोऽत्र जन्मनः॥५१॰॥