Bab

Sloka 472

परित्यज्य प्रियान् प्राणान् प्रविशन्ति रणाजिरे। पुरुषाः प्रेष्यतामन्ये निर्ग्गच्छन्ति धनार्थिनः॥४७२॥

Sloka 473

दोषाश्रयमपायान्तमैश्वर्य्यं कामयेत कः। यत् सम्पत्तौ विपत्तौ वा जनयत्येव विक्रियाम्॥४७३॥

Sloka 474

त्रयो मदा महाराज मोहयन्त्यविचक्षणम्। स्त्रियोऽन्नपानमैश्वर्य्यं तेषु सक्ता न जाग्रति॥४७४॥

Sloka 475

सम्पदः पमदाश्चैव तरङ्गोत्सङ्गभङ्गुराः। कस्तास्वहिफणछत्त्र छायास्विव रमेबुधः॥४७५॥

Sloka 476

मा तात विस्तरं कार्षीः सम्पद्भिः प्रविमोहितः। स्वगात्रण्यापि भाराय भवन्ति विधिपर्य्यये॥४७६॥

Sloka 477

आकिञ्चन्ये च राज्ये च विशेषः सुमहानयम्। नित्योद्विग्नो हि धनवान् सर्व्वं त्यक्त्वा सुखी भवेत्॥४७७॥

Sloka 478

न हि सञ्चयवान् कश्चिद्दृश्यते निरुपद्रवः। त्यजेत सञ्चयांस्तस्मात् प्राज्ञः क्लेशं सहैव च॥४७८॥

Sloka 479

प्रत्यूहपटहो राज्ञः सामन्यपुरवासिभिः। मा मैवमिति यो भावः स तस्य प्रीतिकारकः॥४७९॥

Sloka 481

अलं परिग्रह्णैव दोषवान् सपरिग्रहः। क्रिमिर्हि कोशकारो हि बद्ध्यते स्वपरिग्रहात्॥४८१॥