Bab
Sloka 472
परित्यज्य प्रियान् प्राणान् प्रविशन्ति रणाजिरे। पुरुषाः प्रेष्यतामन्ये निर्ग्गच्छन्ति धनार्थिनः॥४७२॥
Sloka 476
मा तात विस्तरं कार्षीः सम्पद्भिः प्रविमोहितः। स्वगात्रण्यापि भाराय भवन्ति विधिपर्य्यये॥४७६॥
Sloka 477
आकिञ्चन्ये च राज्ये च विशेषः सुमहानयम्। नित्योद्विग्नो हि धनवान् सर्व्वं त्यक्त्वा सुखी भवेत्॥४७७॥
Sloka 478
न हि सञ्चयवान् कश्चिद्दृश्यते निरुपद्रवः। त्यजेत सञ्चयांस्तस्मात् प्राज्ञः क्लेशं सहैव च॥४७८॥