Bab

Sloka 240

उपाध्यायं पितरं मातरं च येऽभिद्रुह्यन्ति मनसा कर्म्मणा​ व । तेषां पापं भ्रूनह्त्याविचिस्तं नन्यस्तस्मात् पापकृच्चास्तिलोके ॥२४॰॥

Sloka 241

शरीरमेतौ कुरुतः पीत माता च भारत । अचार्यशास्ता या जातिः स दिव्या साजरामरा ॥२४१॥

Sloka 242

लौकिकं वैदिकं वापि तथाध्यात्मिकमेव च । यस्माच्चाधीयेत नरस्तं पूर्व्वमभिवादयेत् ॥२४२॥

Sloka 243

गुरुना वैरनिर्बन्धो न कर्तव्यः कदाचन । अनुमान्यः प्रसाद्यश्च गुरुः प्रुद्धो विजानता ॥२४३॥

Sloka 244

सम्यङ् मिथ्याप्रवृत्ते वा वर्त्तितव्यं गुराविह । गुरुनिन्दा निहन्त्यायुर्मनुष्याणां न संषयः ॥२४४॥

Sloka 245

तपश्शौचवता नित्यं धर्म्मसत्यरतेन च । मातापित्रोरहरहः पूजनं कार्यमञ्जसा ॥२४५॥

Sloka 246

माता गुरुतरा भूमेः खात् तथोच्चतरः पिता मनः शिघ्रतरं वायोश्चिन्ता बहुतरा तृणात्

Sloka 247

पिता माता च राजेन्द्र तुष्यतो यस्य देहिनः । इह प्रेत्य च तस्याथ किर्त्तिर्भवति शाश्वती ॥२४७॥

Sloka 248

शरीरकृत् प्राणदाता यस्य चान्नानि भुञ्जते । क्रमेणैते त्रयोऽप्यूक्तः पितरो धर्म्मसाधने ॥२४८॥