Bab

Sloka 22

यथादित्यः समुद्यन् वै तमः सर्व्वं व्यपोहति । एवं कल्याणमातिष्ठन् सर्व्वपापं व्यपोहति ॥२२॥

Sloka 23

यथा यथा हि पुरुषः कल्याणे रमते मनः। तथा तथास्य सिद्ध्यन्ति सर्व्वार्था नात्र संशयः॥२३॥

Sloka 24

धर्म्मः सदा हितः पुंसां धर्म्मश्चैवाश्रयः सताम् । धर्म्मल्लोकास्त्रयस्तात प्रवृत्ताः सचराचराः ॥२४॥

Sloka 25

यस्य नोत्क्रामति मतिर्धर्म्ममार्ग्गनुसारिणी। तमाहुः पुण्यकर्माणं न शोच्यो मित्रबान्धवैः॥२५॥

Sloka 235

अनु तं तात जीवन्ति ज्ञातयः सह बान्धवैः । पर्ज्जन्यमिव भूतानि द्रुमं स्वादुमिवाण्डजाः ॥२३५॥

Sloka 236

श्रीमन्तं ज्ञतिमासाद्य यज्ज्ञातिरयचीदति । दग्धवृक्षं मृग इव सादनं तस्य निन्दति ॥२३६॥

Sloka 237

षत्वारस्ते तत गृहे वसन्तु श्रियाभिभूतष्य गृहस्थधर्म्मे । दिनो ज्ञतिश्चावसन्नः कुलीनः सखा दरिद्रो भगिनी चानपत्य ॥२३७॥

Sloka 238

अकर्म्मशीलं च महाशनं च लेकद्विष्टं बहुमायं नृशंसं । अदेशकलज्ञमर्निष्टवेषमेतान् गृहे न प्रतिवासयेत ॥२३८॥

Sloka 239

ऋत्विक्पुरोहिताचार्य्याः शिष्यसम्बान्धिबन्धवाः । सर्व्वे पूज्याश्च मान्याश्च श्रुतवृत्तोपसंहिताः ॥२३९॥