Bab
BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 38
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् । मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥१०.३८॥
BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 39
यच्चापि सर्वभूतानां बीजं तदहमर्जुन । न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥१०.३९॥
BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 40
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप । एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥१०.४०॥
BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 41
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ॥१०.४१॥
BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 42
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन । विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥१०.४२॥