Bab

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 29

अनन्तश्चास्मि नागानां वरुणो यादसामहम् । पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥१०.२९॥

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 30

प्रह्लादश्चास्मि दैत्यानां कालः कालयतामहम् । मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥१०.३०॥

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 31

पवनः पवतामस्मि रामः शस्त्रभृतामहम् । झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥१०.३१॥

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 32

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन । अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥१०.३२॥

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 33

अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च । अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥१०.३३॥

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 34

मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् । कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥१०.३४॥

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 35

बृहत्साम तथा साम्नां गायत्री छन्दसामहम् । मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥१०.३५॥

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 36

द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् । जयोऽस्मि व्ययसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥१०.३६॥

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 37

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः । मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥१०.३७॥