Bab

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 20

अहमात्मा गुडाकेश सर्वभूताशयस्थितः । अहमादिश्च मध्यं च भूतानामन्त एव च ॥१०.२०॥

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 21

आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् । मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥१०.२१॥

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 22

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः । इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥१०.२२॥

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 23

रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् । वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥१०.२३॥

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 24

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् । सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥१०.२४॥

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 25

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् । यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥१०.२५॥

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 26

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः । गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥१०.२६॥

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 27

उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् । ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥१०.२७॥

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 28

आयुधानामहं वज्रं धेनुनामस्मि कामधुक् । प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥१०.२८॥