Bab

BAB IX - Ajaran Yoga Tentang Rājavidyā Rājaguhya | Sloka 28

शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः । सन्न्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥९.२८॥

BAB IX - Ajaran Yoga Tentang Rājavidyā Rājaguhya | Sloka 29

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥९.२९॥

BAB IX - Ajaran Yoga Tentang Rājavidyā Rājaguhya | Sloka 30

अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥९.३०॥

BAB IX - Ajaran Yoga Tentang Rājavidyā Rājaguhya | Sloka 31

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति । कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥९.३१॥

BAB IX - Ajaran Yoga Tentang Rājavidyā Rājaguhya | Sloka 32

मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः । स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥९.३२॥

BAB IX - Ajaran Yoga Tentang Rājavidyā Rājaguhya | Sloka 33

किं पुनर्ब्रह्मणाः पुण्या भक्ता राजर्षयस्तथा । अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥९.३३॥

BAB IX - Ajaran Yoga Tentang Rājavidyā Rājaguhya | Sloka 34

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥९.३४॥

Sloka 1

यज्ञे बहुज्ञं परमाभ्युदारं यं द्वीपमध्ये सुतमात्मभावात् । पराशरात् सत्यवती महार्षिं तस्मै नमोऽज्ञानतमोनुदाय ॥१॥

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 1

श्रीभगवानुवाच भूय एव महाबाहो शृणु मे परमं वचः । यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥१०.१॥