Bab
BAB IX - Ajaran Yoga Tentang Rājavidyā Rājaguhya | Sloka 19
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च । अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥९.१९॥
BAB IX - Ajaran Yoga Tentang Rājavidyā Rājaguhya | Sloka 20
त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते । ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान् ॥९.२०॥
BAB IX - Ajaran Yoga Tentang Rājavidyā Rājaguhya | Sloka 21
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति । एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ॥९.२१॥
BAB IX - Ajaran Yoga Tentang Rājavidyā Rājaguhya | Sloka 22
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥९.२२॥
BAB IX - Ajaran Yoga Tentang Rājavidyā Rājaguhya | Sloka 23
येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः । तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥९.२३॥
BAB IX - Ajaran Yoga Tentang Rājavidyā Rājaguhya | Sloka 24
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥९.२४॥
BAB IX - Ajaran Yoga Tentang Rājavidyā Rājaguhya | Sloka 25
यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः । भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥९.२५॥
BAB IX - Ajaran Yoga Tentang Rājavidyā Rājaguhya | Sloka 26
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥९.२६॥
BAB IX - Ajaran Yoga Tentang Rājavidyā Rājaguhya | Sloka 27
यत्करोषि यदश्नासि यज्जुहोषि ददासि च । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥९.२७॥