Bab
BAB VIII - Ajaran Yoga Tentang Keabadian Tuhan | Sloka 20
परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः । यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥८.२०॥
BAB VIII - Ajaran Yoga Tentang Keabadian Tuhan | Sloka 21
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् । यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥८.२१॥
BAB VIII - Ajaran Yoga Tentang Keabadian Tuhan | Sloka 22
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया । यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥८.२२॥
BAB VIII - Ajaran Yoga Tentang Keabadian Tuhan | Sloka 23
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥८.२३॥
BAB VIII - Ajaran Yoga Tentang Keabadian Tuhan | Sloka 24
अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥८.२४॥
BAB VIII - Ajaran Yoga Tentang Keabadian Tuhan | Sloka 25
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥८.२५॥
BAB VIII - Ajaran Yoga Tentang Keabadian Tuhan | Sloka 26
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते । एकया यात्यनावृत्तिमन्येयावर्तते पुनः ॥८.२६॥
BAB VIII - Ajaran Yoga Tentang Keabadian Tuhan | Sloka 27
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन । तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥८.२७॥
BAB VIII - Ajaran Yoga Tentang Keabadian Tuhan | Sloka 28
वेदेषु यज्ञेषु तपस्सु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् । अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥८.२८॥