Bab

BAB VII - Ajaran Yoga Tentang JNANA dan VIJNANA | Sloka 23

अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् । देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥७.२३॥

BAB VII - Ajaran Yoga Tentang JNANA dan VIJNANA | Sloka 24

अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः । परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥७.२४॥

BAB VII - Ajaran Yoga Tentang JNANA dan VIJNANA | Sloka 25

नाहं प्रकाशः सर्वस्य योगमायासमावृतः । मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥७.२५॥

BAB VII - Ajaran Yoga Tentang JNANA dan VIJNANA | Sloka 26

वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन ॥७.२६॥

BAB VII - Ajaran Yoga Tentang JNANA dan VIJNANA | Sloka 27

इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत । सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ॥७.२७॥

BAB VII - Ajaran Yoga Tentang JNANA dan VIJNANA | Sloka 28

येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् । ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥७.२८॥

BAB VII - Ajaran Yoga Tentang JNANA dan VIJNANA | Sloka 29

जरामरणमोक्षाय मामाश्रित्य यतन्ति ये । ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥७.२९॥

BAB VII - Ajaran Yoga Tentang JNANA dan VIJNANA | Sloka 30

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः । प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥७.३०॥

BAB VIII - Ajaran Yoga Tentang Keabadian Tuhan | Sloka 1

अर्जुन उवाच किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम । अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥८.१॥