Bab

BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 38

कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति । अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥६.३८॥

BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 39

एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः । त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥६.३९॥

BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 40

श्रीभगवानुवाच पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते । न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ॥६.४०॥

BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 41

प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥६.४१॥

BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 42

अथवा योगिनामेव कुले भवति धीमताम् । एतद्धिदुर्लभतरं लोके जन्म यदीदृशम् ॥६.४२॥

BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 43

तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् । यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥६.४३॥

BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 44

पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः । जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥६.४४॥

BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 45

प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः । अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥६.४५॥

BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 46

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥६.४६॥