Bab
BAB VII - Ajaran Yoga Tentang JNANA dan VIJNANA | Sloka 14
दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥७.१४॥
BAB VII - Ajaran Yoga Tentang JNANA dan VIJNANA | Sloka 15
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥७.१५॥
BAB VII - Ajaran Yoga Tentang JNANA dan VIJNANA | Sloka 16
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥७.१६॥
BAB VII - Ajaran Yoga Tentang JNANA dan VIJNANA | Sloka 17
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥७.१७॥
BAB VII - Ajaran Yoga Tentang JNANA dan VIJNANA | Sloka 18
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् । आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥७.१८॥
BAB VII - Ajaran Yoga Tentang JNANA dan VIJNANA | Sloka 19
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥७.१९॥
BAB VII - Ajaran Yoga Tentang JNANA dan VIJNANA | Sloka 20
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः । तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥७.२०॥
BAB VII - Ajaran Yoga Tentang JNANA dan VIJNANA | Sloka 21
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति । तस्य तस्याचलां श्रद्धं तामेव विदधाम्यहम् ॥७.२१॥
BAB VII - Ajaran Yoga Tentang JNANA dan VIJNANA | Sloka 22
स तया श्रद्धया युक्तस्तस्याराधनमीहते । लभते च ततः कामान्मयैव विहितान्हि तान् ॥७.२२॥