Bab
BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 29
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥६.२९॥
BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 30
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥६.३०॥
BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 31
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥६.३१॥
BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 32
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥६.३२॥
BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 33
अर्जुन उवाच योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन । एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥६.३३॥
BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 34
चञ्चलं हि मनः कृष्ण प्रमाथि बलवाद्दृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥६.३४॥
BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 35
श्रीभगवानुवाच असंशयं महाबाहो मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥६.३५॥
BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 36
असंयतात्मना योगो दुष्प्राप इति मे मतिः । वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥६.३६॥
BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 37
अर्जुन उवाच अयतिः श्रद्धयोपेतो योगाच्चलितमानसः । अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥६.३७॥