Bab
BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 20
यत्रोपरमते चित्तं निरुद्धं योगसेवया । यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥६.२०॥
BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 21
सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् । वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥६.२१॥
BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 22
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः । यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते ॥६.२२॥
BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 23
तं विद्याद् दुःखसंयोगवियोगं योगसञ्ज्ञितम् । स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥६.२३॥
BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 24
सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः । मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥६.२४॥
BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 25
शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥६.२५॥
BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 26
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥६.२६॥
BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 27
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥६.२७॥
BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 28
युञ्जन्नैवं सदात्मानं योगी विगतकल्मषः । सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥६.२८॥