Bab
BAB IV - Ajaran Yoga Tentang Pengetahuan dan Disiplin Karma | Sloka 35
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव । येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥४.३५॥
BAB IV - Ajaran Yoga Tentang Pengetahuan dan Disiplin Karma | Sloka 36
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः । सर्वं ज्ञानप्लवेनैव वृजिनं सन्तिरष्यसि ॥४.३६॥
BAB IV - Ajaran Yoga Tentang Pengetahuan dan Disiplin Karma | Sloka 37
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥४.३७॥
BAB IV - Ajaran Yoga Tentang Pengetahuan dan Disiplin Karma | Sloka 38
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥४.३८॥
BAB IV - Ajaran Yoga Tentang Pengetahuan dan Disiplin Karma | Sloka 39
शर्द्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥४.३९॥
BAB IV - Ajaran Yoga Tentang Pengetahuan dan Disiplin Karma | Sloka 40
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥४.४०॥
BAB IV - Ajaran Yoga Tentang Pengetahuan dan Disiplin Karma | Sloka 41
योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥४.४१॥
BAB IV - Ajaran Yoga Tentang Pengetahuan dan Disiplin Karma | Sloka 42
तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः । छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥४.४२॥
BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 1
श्रीभगवानुवाच अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । स सन्न्यासी च योगी च न निरग्निर्न चाक्रियः ॥६.१॥