Bab

BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 11

शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥६.११॥

BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 12

तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥६.१२॥

BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 13

समं कायशिरोग्रीवं धारयन्नचलं स्थिरः । सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥६.१३॥

BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 14

प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः । मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥६.१४॥

BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 15

युञ्जन्नेवं सदात्मानं योगी नियतमानसः । शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥६.१५॥

BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 16

नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः । न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥६.१६॥

BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 17

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥६.१७॥

BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 18

यदा विनियतं चित्तमात्मन्येवावतिष्ठते । निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥६.१८॥

BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 19

यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता । योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥६.१९॥