Bab
BAB VI - Ajaran Yoga Tentang Dhyāna | Sloka 47
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥६.४७॥
BAB VII - Ajaran Yoga Tentang JNANA dan VIJNANA | Sloka 6
एतद्योनीनि भूतानि सर्वाणीत्युपधारय । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥७.६॥
BAB VII - Ajaran Yoga Tentang JNANA dan VIJNANA | Sloka 7
मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥७.७॥
BAB VII - Ajaran Yoga Tentang JNANA dan VIJNANA | Sloka 8
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः । प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥७.८॥
BAB VII - Ajaran Yoga Tentang JNANA dan VIJNANA | Sloka 9
पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ । जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥७.९॥
BAB VII - Ajaran Yoga Tentang JNANA dan VIJNANA | Sloka 10
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् । बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥७.१०॥
BAB VII - Ajaran Yoga Tentang JNANA dan VIJNANA | Sloka 11
बलं बलवतां चाहं कामरागविवर्जितम् । धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥७.११॥
BAB VII - Ajaran Yoga Tentang JNANA dan VIJNANA | Sloka 12
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये । मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥७.१२॥
BAB VII - Ajaran Yoga Tentang JNANA dan VIJNANA | Sloka 13
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥७.१३॥