Bab
BAB VIII - Ajaran Yoga Tentang Keabadian Tuhan | Sloka 11
यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥८.११॥
BAB VIII - Ajaran Yoga Tentang Keabadian Tuhan | Sloka 12
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च । मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥८.१२॥
BAB VIII - Ajaran Yoga Tentang Keabadian Tuhan | Sloka 13
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥८.१३॥
BAB VIII - Ajaran Yoga Tentang Keabadian Tuhan | Sloka 14
अनन्यचेताः सततं यो मां स्मरति नित्यशः । तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥८.१४॥
BAB VIII - Ajaran Yoga Tentang Keabadian Tuhan | Sloka 15
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् । नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥८.१५॥
BAB VIII - Ajaran Yoga Tentang Keabadian Tuhan | Sloka 16
आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥८.१६॥
BAB VIII - Ajaran Yoga Tentang Keabadian Tuhan | Sloka 17
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः । रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥८.१७॥
BAB VIII - Ajaran Yoga Tentang Keabadian Tuhan | Sloka 18
अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे । रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके ॥८.१८॥
BAB VIII - Ajaran Yoga Tentang Keabadian Tuhan | Sloka 19
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते । रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥८.१९॥