Bab
BAB IX - Ajaran Yoga Tentang Rājavidyā Rājaguhya | Sloka 10
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् । हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥९.१०॥
BAB IX - Ajaran Yoga Tentang Rājavidyā Rājaguhya | Sloka 11
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् ॥९.११॥
BAB IX - Ajaran Yoga Tentang Rājavidyā Rājaguhya | Sloka 12
मोघशा मोघकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥९.१२॥
BAB IX - Ajaran Yoga Tentang Rājavidyā Rājaguhya | Sloka 13
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥९.१३॥
BAB IX - Ajaran Yoga Tentang Rājavidyā Rājaguhya | Sloka 14
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः । नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥९.१४॥
BAB IX - Ajaran Yoga Tentang Rājavidyā Rājaguhya | Sloka 15
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते । एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥९.१५॥
BAB IX - Ajaran Yoga Tentang Rājavidyā Rājaguhya | Sloka 16
अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् । मन्त्रोऽहमहमेवज्यमहमग्निरहं हुतम् ॥९.१६॥
BAB IX - Ajaran Yoga Tentang Rājavidyā Rājaguhya | Sloka 17
पिताहमस्य जगतो माता धाता पितामहः । वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च ॥९.१७॥
BAB IX - Ajaran Yoga Tentang Rājavidyā Rājaguhya | Sloka 18
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् । प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥९.१८॥