Bab

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 11

तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥१०.११॥

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 12

अर्जुन उवाच परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥१०.१२॥

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 13

आहुस्त्वामृषयः सर्वे देवर्षिनारदस्तथा । असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥१०.१३॥

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 14

सर्वमेतदृतं मन्ये यन्मां वदसि केशव । न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥१०.१४॥

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 15

स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम । भूतभावन भूतेश देवदेव जगत्पते ॥१०.१५॥

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 16

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः । याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥१०.१६॥

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 17

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् । केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥१०.१७॥

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 18

विस्तरेणात्मनो योगं विभूतिं च जनार्दन । भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥१०.१८॥

BAB X - Ajaran Yoga Tentang Kekuasaan Suci Tuhan | Sloka 19

श्रीभगवानुवाच हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः । प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥१०.१९॥