प्रीतिमात्रं पितुः पुत्रः सर्व्वं पुत्रस्य वै पिता । शरीरादीनि देयानि पिता त्वेकः प्रयच्छति ॥२४९॥
समर्थ मसमर्थं वा कृशं चाप्यकृशं तथा । रक्षत्येव सुतं माता नान्यः पोष्टा तथाविधः ॥२५॰॥
स च शोचति नाप्येनं स्ववीर्य्यमपकर्षति। श्रिया हीनोऽपि यो गेहे तवेति प्रतिपद्यते॥२५१॥
पुत्रपौत्रोपपन्नोऽपि जननीं यः समाश्रितः। अपि वर्षशतस्यान्ते विहायस्येष वर्त्तते॥२५२॥
तदाऽसमृद्धो भवति तदा भवति दुःखितः। तदा शून्यं जगत् सर्व्वं यदा मात्रा वियुज्यते॥२५३॥
अभिवादयेत वृद्धमासनं चास्य दर्शयेत्। कृताञ्जलिरुपासीत गच्छन्तं पृष्ठतोऽन्वियात्॥२५४॥
ऊर्ध्वं प्राणा उत्क्रामन्ति यूनः स्थविर आयति। प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते॥॥
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः। चत्वारि तस्य वर्धन्ते कीर्तिरायुर्य्यशो बलम्॥२५६॥
वयसः कर्म्मणोऽर्थस्य श्रुतस्याभिजनस्य च। वेषवाग्भुद्धिसारूप्यमनुन्मत्तस्य लक्षणम्॥२५७॥