Bab

Sloka 276

यन्न धर्म्माय नार्थाय न कामाय न शान्तये । व्यर्थं तज्जन्मिनां जन्म म​ऋअनायैव केवलम् ॥२७६॥

Sloka 277

अर्थांस्त्यजत पात्रेषु भजध्वं कामजान् गुणान् । प्रियं प्रियेभ्यः कुरुत मृत्युर्हि त्वरते जयी ॥२७७॥

Sloka 278

इहैवैकस्य नामुत्रामुत्रैकस्य नो इह । इह वामुत्र वैकस्य नामुत्रैकस्य नो इह ॥२७८॥

Sloka 279

धनानि येषां विपुलानि सन्ति नित्यं रमन्ते सुविभूषिताश्च । तेषामयं शत्रुवरघ्नलोको नासौ सदा देहसुखे रतानाम् ॥२७९॥

Sloka 280

ये युक्तयोगास्तपसि प्रयुक्ताः स्वाध्यायशीला जनयन्ति देहम् । जितेन्द्रिया भूतहिते निविष्टास्तेषामयं नास्ति परस्तु लोकह् ॥२८॰॥

Sloka 281

ये धर्म्ममेव प्रथमं चरन्ति धर्म्मेण​ लब्ध्वा तु धनानि लोके । दारानवाप्य क्रतुभिर्य्यजन्ते तेषामयं चैव परश्च लोकः ॥२८१॥

Sloka 282

य नैव विद्यां न तपो न दानं न चापि पूजां क्रतुभिर्य्यजन्ते । न चाधिगच्छन्ति सुखाम भाग्यास्तेषामयं नैव परश्च लोकः ॥२८२॥

Sloka 283

अक्रोधनश्च राजेन्द्र स्त्यशीलो दृढव्रतः । आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ॥२८३॥

Sloka 284

अनुपोष्य त्रिरात्रेषु तिर्थान्यनधिगम्य च । अदत्त्वा कञ्चनं गाश्च दरिद्रो नाम जायते ॥२८४॥