Bab

Sloka 303

एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर । एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोर्ऽथिभिः ॥३॰३॥

Sloka 304

अहन्यहनि भूतानि सृजत्येव प्रजापतिः । अद्यापि न सृजत्येकं योर्ऽथिनम् नावमन्यते ॥३॰४॥

Sloka 305

कण्ठगद्गदता स्वेदो मुखवैवर्ण्यवेपथू । म्रियमानस्य चिह्नानि यानि तान्येव याचतः ॥३॰५॥

Sloka 306

वस्त्रमम्भस्तिलान् भूमिं गन्धो वासयते यथा । पुष्पाणामधिवासेन तथा संसर्ग्गजा गुणाः ॥३०६॥

Sloka 307

हीयते हि मतिस्तात हीनैः सह समागमात् । समैश्च समतामेति विशिष्टैश्च विशिष्टताम् ॥३०७॥

Sloka 308

गुणवत्सु गुणाल्पोऽपि याति विस्तरतां नृणाम् । पतितः स्वादुविमले तैलबिन्दुरिवाम्भसि ॥३०८॥

Sloka 309

महानप्यल्पतामेति निर्ग्गुणे गुणविस्तरः । आधारानुस्वभावत्वाद् गजेन्द्र इव दर्प्पणे ॥३०९॥

Sloka 310

तस्माद् गुणेषु रज्येत मा दोषेषु कदाचन । निर्ग्गुणो यो हि दुर्बुद्धिरात्मनः सोऽरिरुच्यते ॥३१०॥

Sloka 311

सद्भिरेव सहासीत सद्भिः कुर्वीत सङ्गतिम् । सद्भिर्व्विवादं मैत्रिं वा नासद्भिः किञ्चिदाचरेत् ॥३११॥