Bab

Sloka 211

छेत्रं हि भरतश्रेष्ठ यो ददाति द्विजातये । स शक्रलोके वसति पूज्यमानो ‘प्सरोगणैः ॥२११॥

Sloka 212

उपनाहौ तु यो दद्याच्छ्लक्ष्ण स्नेहसमन्वितौ । सोऽपि लोकानवाप्नोति दैवतैरभिपूजितः॥॥

Sloka 213

सर्व्वस्वमपि यो दद्यात् कलुषेणान्तरात्मना । न तेन स्वर्ग्गमाप्नोति चित्तह्मवात्र कारणम् ॥२१३॥

Sloka 214

यद्यदिष्टतमं लोके यच्च स्याद्दयितं गृहे । तत्तद् गुणवते देयं तदेवाक्षयमिच्छता ॥२१४॥

Sloka 215

सत्कृत्य तु द्विजातिभ्यो यद्दीयेत तदुत्तमम् । याचितेन हि यद्दत्तं तदाहुर्म्मद्यमं बुधाः ॥२१५॥

Sloka 216

अवज्ञया दीयते यद्यदेवाश्रद्धयापि च । तदाहुरधनं दानं मुनयः सत्यवादिनः ॥२१६॥

Sloka 217

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्ष न च तत्प्रेत्य नेह च ॥२१७॥

Sloka 218

देयानि घणपिण्यक शाकान्यपि हि याचतः । तदभ्यासोचितत्यागो मांसाद्यपि हि दास्यति ॥२१८॥

Sloka 219

यो न दद्यात् प्रतिश्रुत्य स्वल्पं वा यदि वा बहु । आशास्तस्य हताः सर्व्वाः क्लीबस्येव हताः क्रियाः ॥२१९॥