Bab

Sloka 366

मुष्णन् दरिद्रात्यभिहन्यते घ्नन् पूज्यानसम्पूज्य भवत्यपूज्यः। यत् कर्म्मविजं वपते मनुष्यः तस्यानुरूपाणि फलानि भुंक्ते॥३६६॥

Sloka 367

अन्यदुप्तं जातमन्यदित्येतन्नोपपद्यते। उप्यते भुवि यद्वीजं तत्तदेव प्ररोहति॥३६७॥

Sloka 368

नित्यमेव सुखं स्वर्ग्गे सुखं दुःखमिहोभयम्। नरके दुःखमेवैतन् मोक्षे तु परमं सुखम्॥३६८॥

Sloka 369

स्वर्ग्गलोकं नयन्त्येनं पञ्चैव सुकृताः कृताः। कूपारामसभावप्रा ब्राह्मणावसथा नृप॥३६९॥

Sloka 370

श्वःकार्य्यमद्य कुर्व्वीत पूर्व्वाह्ने चापराह्णिकम्। न हि प्रतीक्षते मृत्युः कृतं वाप्यकृतं तथा॥३७०॥

Sloka 371

यस्य स्यान्मृत्युना सख्यं यो वै स्यादजरामरः। तस्य तद्युज्यते वक्तुमिदं मे श्वो भविष्यति॥३७१॥

Sloka 372

अपर्य्यन्तस्य कालस्य कियानंशः शरच्छतम्। तन्मात्रपरमायुर्य्यः स कथं स्वप्तुमर्हति॥३७२॥

Sloka 373

भूतजीवितमत्यल्पं रात्रिस्तत्रार्द्धहारिणी। तदर्द्धमपि निर्ह्रास्यं व्याधिशोकजरामरैः॥३७३॥

Sloka 374

सन्निमज्जज्जगदिदं गम्भीरे कालसागरे। जरामृत्युमहाग्राहे न कश्चिदवबुध्यते॥३७४॥